वन्दे मातरम् 👉 https://aryaveerdal.in/vande-matram/
सादरं समीयतां वन्दना विधीयताम् ।
श्रद्धया स्वमातृभूसमर्चना विधीयताम् ।।
आपदो भवन्तु वा, विद्युतो लसन्तु वा ।
आयुधानि भूरिशोऽपि, मस्तके पतन्तु वा । ।
धीरता न हीयतां वीरता विधीयताम् ।
निर्भयेन चेतसा पदं पुरो विधीयताम् ।।१।।
प्राणदायिनी इयम्, त्राणदायिनी इयम् ।
शक्ति भक्ति मुक्तिदा, सुधाऽनपायिनी इयम् ।।
एतदीय वन्दने सेवनेऽभिनन्दने
साभिमानमात्मनो जीवनं प्रदीयताम् ।।२।।
जागो तो एक बार जागो 👇 https://aryaveerdal.in/jago-to-ek-bar-jago/