ध्वजगान
२. ध्वजगान ध्वजेयं मुदा वर्धते व्योमवातैः , समुड्डीमानान्तरिक्षे विशाले ।
महामण्डले दीप्त दिव्यारुणाभे , सुभासैर्रवेर्भासते ओ ३ म् पताका ।।
प्रबुद्धार्यवर्तैक देशे प्रशस्ता , समस्तार्य वीरैर्धृता या समन्तात् ।
पुरा ज्ञानज्योतिः प्रदत्तं पृथिव्यां , सुधा वेदवाण्या नुता गीयते च ।।
समुद्धर्त्तुकामाः वयञ्चार्यवीराः , समुत्थाप्यतां विश्वमेतत् प्रसुप्तम् ।
इयं सार्य राष्ट्राङ्गभूता ध्वजास्ते , पराशक्ति रूपा ददातु स्वशक्तिम् ।।
महामङ्गले विश्वशांत्यैकमूर्ते , सुकीर्तिः सदा वर्धतान्ते प्रशस्या ।
समुद्घोषणा घोष्यते वीरघोषैः , विजेजीयतां नः पताकाऽपतापा ।।